|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.81. अध्यायः 081
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
बभ्रुवाहने प्रायोपविष्टे उलूप्या स्मरणमात्रसंनिहितसंजीवनमणिनार्जुनस्य समुद्धोधनम्॥ 1 ॥ ततः सुप्तोत्थितेनेव तेन बभ्रुवाहनंप्रति चित्राङ्गदादीनां रणाङ्गणागमने कारणप्रश्ने तेनोलूपींप्रति प्रश्नचोदना॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा।
पितृशोकसमाविष्टे सह मात्रा परंतप॥ 14-81-1(94766)
उलूपी चिन्तयामास तदा संजीवनं मणिम्।
स चोपातिष्ठत तदा पन्नगानां परायणम्॥ 14-81-2(94767)
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्॥ 14-81-3(94768)
उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः।
अजेयः पुरुषैरेष तथा देवैः सवासवैः॥ 14-81-4(94769)
मया तु मोहनी नाम मायैषा सम्प्रदर्शिता।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः॥ 14-81-5(94770)
जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा॥ 14-81-6(94771)
तस्मादसि मया पुत्र युद्धाय परिचोदितः।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो॥ 14-81-7(94772)
ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक॥ 14-81-8(94773)
अयं तु मे मणिर्दिव्यः समानीतो विशांपते।
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा॥ 14-81-9(94774)
एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो।
संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम्॥ 14-81-10(94775)
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्॥ 14-81-11(94776)
तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः।
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः॥ 14-81-12(94777)
तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः॥ 14-81-13(94778)
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः॥ 14-81-14(94779)
अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः।
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः॥ 14-81-15(94780)
उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः॥
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि॥ 14-81-16(94781)
ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः॥ 14-81-17(94782)
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्।
रणाजिरममित्रघ्न यदि जानासि शंस मे॥ 14-81-18(94783)
जननी च किमर्थं ते रणभूमिमुपागता।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता॥ 14-81-19(94784)
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्॥ 14-81-20(94785)
तमुवाच तथा पृष्टो मणलूरपतिस्तदा।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति॥ ॥ 14-81-21(94786)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकाशीतितमोऽध्यायः॥ 81 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|